|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.181. अध्यायः 181
Mahabharata - Shanti Parva - Chapter Topics
भरद्वाजंप्रति भृगुणा मेरुस्थब्रह्मणा जलादिभूम्यन्तसृष्टिप्रकारकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भरद्वाज उवाच। 12-181-0x(5919)(72289)
मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः।
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः॥ 12-181-1(72290)
भृगुरुवाच। 12-181-2x(5920)
प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत्।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्॥ 12-181-2(72291)
यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः।
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्॥ 12-181-3(72292)
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः॥ 12-181-4(72293)
भरद्वाज उवाच। 12-181-5x(5921)
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्॥ 12-181-5(72294)
भृगुरुवाच। 12-181-6x(5922)
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे।
लोकसंभवसन्देहः समुत्पन्नो महात्मनाम्॥ 12-181-6(72295)
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः।
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः॥ 12-181-7(72296)
तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत्।
दिव्या सरस्वती तत्र संबभूव नभस्तलात्॥ 12-181-8(72297)
पुराऽस्तमितनिःशब्दमाकाशमचलोपमम्।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ॥ 12-181-9(72298)
ततः सलिलमुत्पन्नं तमसीवापरं तमः।
तस्माच्च सलिलोत्पीडात्समजायत मारुतः॥ 12-181-10(72299)
यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते।
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः॥ 12-181-11(72300)
तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे।
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान्॥ 12-181-12(72301)
स एष चरते वायुरर्णवोत्पीडसंभवः।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति॥ 12-181-13(72302)
तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः।
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः॥ 12-181-14(72303)
अग्निः पवनसंयुक्तः स्वात्समुत्क्षिपते जलम्।
सोऽग्निमारुतसंयोगाद्धनत्वमुपपद्यते॥ 12-181-15(72304)
तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः।
स संघातत्वमापन्नो भूमित्वमनुगच्छति॥ 12-181-16(72305)
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा।
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते॥ ॥ 12-181-17(72306)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः॥ 181॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-181-3 यत् जलम्। तेन जलेन॥ 12-181-4 वारुणं वरुणदेवतासंबन्धादाप्यमित्यर्थः। मूर्तिमत् मनुष्यपश्वादिविग्रहवत्। आप्यत्वे हेतुः। आपस्तस्तम्भिरे यत आपस्तम्भं धनीभावं पृथिव्यादिरूपं प्राप्ताः॥ 12-181-6 ब्रह्मकल्पे ब्रह्मप्रथमदिने। लोकानां संभव उत्पत्तिस्तत्र विषये संदेहः॥ 12-181-8 तेषां धर्ममयीति ट. ड. पाठः॥ 12-181-9 सरस्वतीमेवाह पुरेति। स्तिमितमाकाशमनन्तमिति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|